|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.12. अध्यायः 012
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति शारीरमानसभेदनेन व्याधेर्द्वैविध्याभिधानपूर्वकं तत्परिहारोपायकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वासुदेव उवाच।
द्विवोधो जायते व्याधिः शारीरो मानसस्तथा।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते॥ 14-12-1(92690)
शरीरे जायते व्याधिः शरीरः स निगद्यते।
मानसे जायते व्याधिर्मानसस्तु निगद्यते॥ 14-12-2(92691)
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्॥ 14-12-3(92692)
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते॥ 14-12-4(92693)
सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्॥ 14-12-5(92694)
तेषामन्यतमोत्सेके विधानमुपदिश्यते।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते॥ 14-12-6(92695)
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति॥ 14-12-7(92696)
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा।
स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम्।
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे॥ 14-12-8(92697)
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि॥ 14-12-9(92698)
प्रव्राजनं च नगरादजिनैश्च विवासनम्।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि॥ 14-12-10(92699)
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि॥ 14-12-11(92700)
पुनरज्ञातचर्यायां कीचकेन पदा वधः।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि॥ 14-12-12(92701)
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ 14-12-13(92702)
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः॥ 14-12-14(92703)
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ 14-12-15(92704)
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि॥ 14-12-16(92705)
एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्॥ ॥ 14-12-17(92706)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-12-3 शीतोष्णे कफपित्ते वायुर्वातः तेषां साम्ये स्वास्थ्यं वैषम्ये व्याधिर्भवतीत्यर्थः॥ 7-12-4 शीतोष्णयोरन्यतराविक्यजं दोष मितरवर्धकेनौषधादिनापनयेदित्यर्थः॥ 7-12-12 कीचकेन पराभव इति क.पाठः॥ 7-12-15 आत्मना मनसा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|